सन्तोषप्राप्त्यै मार्गः

कदाचित् कश्चन गृहस्थः महात्मानं दृष्ट्या नमस्कृत्य पृष्टवान् - "श्रीमन् ! मम जीवने सन्तोषः एव नास्ति । अतः एव अहं भवत्सन्निधिम् आगतवान् अस्मि । मया किं करणीयम् इति उपदिश्यताम्" इति ।

"सन्तोषं प्राप्तुं भवता किं किं कृतम् ?" महात्मा अपृच्छत् ।

"किं किं न कृतम् इति पृच्छ्यताम् । मया उद्योगः कृतः । वाणिज्यं कृतम् । तीर्थक्षेत्राणि दृष्टानि । पर्वताः आरूढाः । प्रबोधनानि श्रुतानि । पुस्तकानि पठितानि । उद्यानेषु विहृतम् । सुहृदां मार्गदर्शनं प्राप्तम् ।... एवं सर्वं कृतं चेदपि सन्तोषः तु न प्राप्तः ।

"भवान् कानिचन दिनानि अस्मदाश्रमे तिष्ठतु । ततः पश्याम" इति अवदत् महात्मा ।

गृहस्थः आश्रमे वासम् आरब्धवान् । आश्रम- मुख्यः तं कूपखननकार्ये योजितवान् । सः गृहस्थः श्रद्धया तत् कार्यम् अकरोत् । केषाञ्चित् दिनानाम् अनन्तरं कूपे जलम् उद्गतम् । तत् द्रष्टुम् आगतः महात्मा तं गृहस्थम् अपृच्छत्- "भोः, अत्र जलं कुतः आगतम् ? किम् अन्यस्मात् आगतं तत् ?''

"न श्रीमन् ! भूमेः अन्तः जलम् आसीत् एव । वयं जलस्थितिस्थलं लक्षणैः अभिज्ञाय तत्र मृत्तिकायाः अपसारणं कृतवन्तः । ततः जलं प्राप्तम् ।..." - गृहस्थः अवदत् ।

"मृत्तिकापसारणम् अल्पेन एव श्रमेण सिद्धं किम् ?”

"नैव श्रीमन् । अस्माभिः द्वित्रैः कानिचन दिनानि यावत् परिश्रमः कृतः ।...."

"मृत्तिका एकस्मिन् एव स्थले अपसारिता, उत विभिन्नेषु स्थलेषु ?''

"विभिन्नेषु स्थलेषु खननात् जलं कथं प्राप्येत ? एकस्मिन् एव स्थले खननं कृतम् अस्माभिः ।..."

तदा महात्मा हसन् अवदत् - "भवता सन्तोष- प्राप्तिमार्गः पृष्टः आसीत् ननु ? कूपखननस्य या नीतिः सा एव अनुसरणीया सन्तोषप्राप्त्यै अपि । ऊर्ध्वभागे विद्यमानाः विघ्नकारकाः अंशाः अप- नीताः चेत् सन्तोषः स्वयमेव उद्गच्छति । सन्तोषः अस्माकम् अन्तः तिष्ठति एव । अवरोधकाः अंशाः प्रयत्नेन निवारणीयाः । निरन्तरप्रयासः अपि अपेक्ष्यते तदर्थम् । सन्तोषः बाह्यतत्त्वं न अव- लम्बते । मनसः नैर्मल्यं सम्पादितं चेत् सन्तोषः स्वयं प्राप्येत ।...


संग्राहक

Dr. Kalinkaar Dipendra

साभार

  • सम्भाषण सन्देशः, अगस्ट २०२० अंक

Updated on

September 20, 2024


Comments

Popular Posts