ईशावास्योपनिषद् (Isopanisad)
शान्तिपाठ
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ॐ शान्तिः शान्तिः शान्तिः ।
मन्त्र १
नेपालीमा अर्थ :
जगत्याम् = अखिल ब्रह्माण्डमा
मन्त्र १
ॐ ईशा वास्यमिदः सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥
सन्धि-विच्छेद :- ईशा वास्यम् इदम् सर्वम् यत् किम् च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्वित् धनम् ॥ १ ॥
नेपालीमा अर्थ :
जगत्याम् = अखिल ब्रह्माण्डमा
यत् किं च = जे जति पनि
जगत् = जड वा चेतनस्वरूप जगत् (छ)
इदम् = यो
सर्वम् = सबै
ईशा = ईश्वरद्वारा (नै)
वास्यम्-व्याप्त छ
तेन = त्यस ईश्वरलाई साथ मा राख्दै
त्यक्तेन = त्यागपूर्वक
भुञ्जीथाः = भोग (यो संसार )
मा गृधः = आसक्त नभउ (यो संसारमा, किनकी)
धनम् = धन (भोग्य-पदार्थ)
कस्य स्वित् = कसको नै पो हो र (अर्थात कसैको पनि होइन )॥ १॥
मन्त्र २
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥
मन्त्र ३
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥
मन्त्र ४
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत्।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥
मन्त्र ५
तदेजति तन्नैजति तद्दूरे तद्वन्तिके।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥
मन्त्र १५
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥
Comments
Post a Comment